मंगलवार, 18 मार्च 2008

श्रीविष्णोरष्टविंशतिनामस्तोत्रम

श्रीविष्णोरष्टविंशतिनामस्तोत्रम

अजुर्न उवाच

किं नु नाम सहस्राणि जपते च पुन: पुन:।
यानि नामानि दिव्यानि तानि चाचक्ष्व केशव॥1॥

श्रीभगवानुवाच

मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम। गोविन्दं पुण्डरीकाक्षं माधवं मधुसूदनम॥2॥
पद्मनाभं सहस्राक्षं वनमालिं हलायुधम। गोवर्धनं हृषीकेशं वैकुण्ठं पुरूषोत्तमम॥3॥
विश्वरूपं वासुदेवं रामं नारायण हरिम्। दामोदरं श्रीधरं च वेदाग्ङं गरुडध्वजम॥4॥
अनन्तं कृष्णगोपालं जपतो नास्ति पातकम। गवां कोटिप्रदानस्य अश्वमेधशतस्य च॥5॥
कन्यादानसहस्राणां फलं प्राप्नोति मानव:। अमायां वा पौर्णमास्यामेकादश्यां तथैव च॥6॥
सन्ध्याकाले स्मरेन्नित्यं प्रात: काले तथैव च। मध्याह्ने च जपन्नित्यं सर्वपापै: प्रमुच्यते॥6॥

इति श्रीकृष्णर्जुनसंवादे श्रीविष्णोरष्ट विंशतिनामस्तोत्रं सम्पूर्णम्।

कोई टिप्पणी नहीं: